एवमेतद्यथात्थ त्वमात्मानं परमेश्वर । द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥ 3 ॥
हे परमेश्वर एवम् एतद् इति अवधृतंयथा आत्थ त्वम् आत्मानं ब्रवीषि । पुरुषोत्तम आश्रितवात्सल्यजलधे तब ऐश्वर त्वदसाधारणं सर्वस्य प्रशासितृत्वे पालयितृत्वे कृत्वे संहर्तृत्वे भर्तृत्वे कल्याणगुणाकरत्वे परतरत्वे सकलेतरविसजातीयत्वे च अवस्थितं रूपं द्रष्टुम साक्षात्कर्तुम् इच्छामि ॥ ३
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो । योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥ 4 ॥
तत् सर्वस्य राष्ट्र सर्वस्य प्रशासितृ सर्वस्य आधारभूतं त्वद्रूपं मया द्रष्टुं शक्यम् इति यदि मन्यसे ततो योगेश्वर योगो ज्ञानादिकल्याणगुणयोगः पश्य मे योगमैश्वरम् (१११८) इति हि वक्ष्यते । त्वद्व्यतिरिक्तस्य कस्य अपि असंभावितानां ज्ञानबलम्वर्यवीर्यशक्तितेजसां निधे
आत्मानं त्वाम् अव्ययं मे दर्शय त्यम् अव्यंयम् इति क्रियाविशेषणम्; त्यां सकलं मे दर्शय
इत्यर्थः ॥ ४ ॥
एवं कौतूहलान्वितेन हर्षगद्रवकण्ठेन पार्थेन प्रार्थितो भगवान् उवाच-
श्री भगवानुवाच
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ 5 ॥
पश्य मे सर्वाश्रयाणि रूपाणि अथ शतशः सहस्रशः च नानाविधानि नानाप्रकाराणि दिव्यानि
अप्राकृतानि नानावर्णाकृतीनि शुरूकृष्णादिनानावर्णानि नानाकाराणि च पश्य ॥ ५ ॥
पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा । बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ।। 6 ।।
मम एकस्मिन् रूपे पश्य आदित्यान् द्वावश, यसून आष्टी, रुद्रान् एकादश, अश्विनौ छौ, मरुतः एकोनपञ्चाशतम्, प्रदर्शनार्थमिदम् इह जगति प्रत्यक्षष्ठानि शास्रष्ठानि च यानि वस्तूनि तानि सर्वाणि अन्यानि अपि सर्वेषु लोकेषु सर्वेषु च शास्त्रेषु अदृष्टपूर्वाणि बहूनि
Негізгі бет 227. ஶ்ரீமத் பகவத் கீதா, ஶ்ரீ ராமானுஜ பாஷ்யம்.அத்தியாயம்11, ஸ்லோகங்கள் 3 -6
Пікірлер