3/16 Brahma Sutram | ப்ரஹ்மஸூத்ரம் | Tamil | 2024 | 1-1 - Adhyaasa Bhaashyam
Brahma Sutram (Day 3) - प्रथमोऽध्यायः (Adhyaya 1) - प्रथमः पादः (Paada 1)
Adhyaasa Bhaashyam
1) (Revision) युष्मदस्मत्प्रत्ययगोचरयोर्विषयविषयिणोस्तमःप्रकाशवद्विरुद्धस्वभावयोरितरेतरभावानुपपत्तौ सिद्धायाम् , तद्धर्माणामपि सुतरामितरेतरभावानुपपत्तिः - इत्यतः अस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके युष्मत्प्रत्ययगोचरस्य विषयस्य तद्धर्माणां चाध्यासः तद्विपर्ययेण विषयिणस्तद्धर्माणां च विषयेऽध्यासो मिथ्येति भवितुं युक्तम् ।
2) आह - कोऽयमध्यासो नामेति । उच्यते - स्मृतिरूपः परत्र पूर्वदृष्टावभासः । तं केचित् अन्यत्रान्यधर्माध्यास इति वदन्ति । केचित्तु यत्र यदध्यासः तद्विवेकाग्रहनिबन्धनो भ्रम इति । अन्ये तु यत्र यदध्यासः तस्यैव विपरीतधर्मत्वकल्पनामाचक्षते । सर्वथापि तु अन्यस्यान्यधर्मावभासतां न व्यभिचरति । तथा च लोकेऽनुभवः - शुक्तिका हि रजतवदवभासते, एकश्चन्द्रः सद्वितीयवदिति ॥
3) कथं पुनः प्रत्यगात्मन्यविषये अध्यासो विषयतद्धर्माणाम् ? सर्वो हि पुरोऽवस्थित एव विषये विषयान्तरमध्यस्यति; युष्मत्प्रत्ययापेतस्य च प्रत्यगात्मनः अविषयत्वं ब्रवीषि । उच्यते - न तावदयमेकान्तेनाविषयः, अस्मत्प्रत्ययविषयत्वात् अपरोक्षत्वाच्च प्रत्यगात्मप्रसिद्धेः । न चायमस्ति नियमः - पुरोऽवस्थित एव विषये विषयान्तरमध्यसितव्यमिति । अप्रत्यक्षेऽपि ह्याकाशे बालाः तलमलिनतादि अध्यस्यन्ति । एवमविरुद्धः प्रत्यगात्मन्यपि अनात्माध्यासः ॥
4) तमेतमेवंलक्षणमध्यासं पण्डिता अविद्येति मन्यन्ते । तद्विवेकेन च वस्तुस्वरूपावधारणं विद्यामाहुः ।
तत्रैवं सति, यत्र यदध्यासः, तत्कृतेन दोषेण गुणेन वा अणुमात्रेणापि स न सम्बध्यते । तमेतमविद्याख्यमात्मानात्मनोरितरेतराध्यासं पुरस्कृत्य सर्वे प्रमाणप्रमेयव्यवहारा लौकिका वैदिकाश्च प्रवृत्ताः, सर्वाणि च शास्त्राणि विधिप्रतिषेधमोक्षपराणि ।
Voice of Rishis
Sri Ramanacharana Tirtha (Nochur) Swami
www.voiceofris...
Негізгі бет 3/16 Brahma Sutram | ப்ரஹ்மஸூத்ரம் | Tamil | 1-1 - Adhyaasa Bhaashyam
Пікірлер