Jagannath Mangal Aarti | Sri Jagannath Sahastranam | जगन्नाथ धाम आरती ଜଗନ୍ନାଥ ସକାଳ ଆରତୀ #Rathyatra
Track Name - Sri Jagannath Aarti
Singers : Varsha Srivastava , Kunwar Anshith
Music Director : Vijaynanda
स्वागत है आपका Shemaroo Bhakti KZitem Channel पर, आइये सब मिलकर प्रभु
श्री जगन्नाथ जी की पावन रथ यात्रा को समर्पित इस अतिफलकारी एवम मनमोहक आरती का श्रवण करे और मिलकर गाये ।
जगन्नाथ जी की आरती का यह अद्भुत वीडियो आपके मन को शांति प्रदान करेगा।
श्री जगन्नाथ पुरी धाम से सीधे प्रसारित यह आरती वीडियो आपको भगवान जगन्नाथ जी के आशीर्वाद से भर देगा।
श्री जगन्नाथ जी की भव्य आरती, जगन्नाथ पुरी मंदिर के सुंदर दृश्य, भक्तों के द्वारा की जाने वाली पूजा और आराधना देखना एवम सुनना अति फलदायक है|
हर दिन इस आरती को सुनने से आपके जीवन में सुख, शांति और समृद्धि का आगमन होगा।
हमारे चैनल को सब्सक्राइब करें और बेल आइकन को दबाएं ताकि आपको हर नई आरती और धार्मिक वीडियो की जानकारी मिल सके।
श्री जगन्नाथ सहस्रनाम स्तोत्रम/Shri Jagannatha Sahasranama
॥ ॐ श्रीजगन्नाथाय नमो नमः ॥
चतुर्भुजो जगन्नाथः कण्ठशोभितकौस्तुभः । पद्मनाभो वेदगर्भश्चन्द्रसूर्यविलोचनः ॥ १ ॥
जगन्नाथो लोकनाथो नीलाद्रीशः परो हरिः । दीनबन्धुर्दयासिन्धुः कृपालुः जनरक्षकः ॥ २ ॥
कम्बुपाणिः चक्रपाणिः पद्मनाभो नरोत्तमः । जगतां पालको व्यापी सर्वव्यापी सुरेश्वरः ॥ ३ ॥
लोकराजो देवराजः शक्रो भूपश्च भूपतिः । नीलाद्रिपतिनाथश्च अनन्तः पुरुषोत्तमः ॥ ४ ॥
तार्क्ष्योध्यायः कल्पतरुः विमलाप्रीतिवर्द्धनः । बलभद्रो वासुदेवो माधवो मधुसूदनः ॥ ५ ॥
दैत्यारिः पुण्डरीकाक्षो वनमाली बलप्रियः । ब्रह्मा विष्णुः वृष्णिवंशो मुरारिः कृष्णकेशवः ॥ ६ ॥
श्रीरामः सच्चिदानन्दो गोविन्दः परमेश्वरः । विष्णुर्जिष्णुर्महाविष्णुः प्रभविष्णुर्महेश्वरः ॥ ७ ॥
लोककर्ता जगन्नाथो महाकर्ता महायशाः । महर्षिः कपिलाचार्यो लोकचारी सुरो हरिः ॥ ८ ॥
आत्मा च जीवपालश्च शूरः संसारपालकः । एकोनैको ममप्रियो ब्रह्मवादी महेश्वरः ॥ ९ ॥
द्विभुजश्च चतुर्बाहुः शतबाहुः सहस्रकः । पद्मपत्रविशालाक्षः पद्मगर्भः परो हरिः ॥ १० ॥
पद्महस्तो देवपालो दैत्यारिर्दैत्यनाशनः । चतुर्मूर्तिश्चतुर्बाहुश्चतुराननसेवितः ॥ ११ ॥
पद्महस्तश्चक्रपाणिः शङ्खहस्तो गदाधरः । महावैकुण्ठवासी च लक्ष्मीप्रीतिकरः सदा ॥ १२ ॥
विश्वनाथः प्रीतिदश्च सर्वदेवप्रियंकरः । विश्वव्यापी दारुरूपश्चन्द्रसूर्यविलोचनः ॥ १३ ॥
गुप्तगङ्गोपलब्धिश्च तुलसीप्रीतिवर्द्धनः । जगदीशः श्रीनिवासः श्रीपतिः श्रीगदाग्रजः ॥ १४ ॥
सरस्वतीमूलाधारः श्रीवत्सः श्रीदयानिधिः । प्रजापतिः भृगुपतिर्भार्गवो नीलसुन्दरः ॥ १५ ॥
योगमायागुणारूपो जगद्योनीश्वरो हरिः । आदित्यः प्रलयोद्धारी आदौ संसारपालकः ॥ १६ ॥
कृपाविष्टः पद्मपाणिरमूर्तिर्जगदाश्रयः । पद्मनाभो निराकारः निर्लिप्तः पुरुषोत्तमः ॥ १७ ॥
कृपाकरः जगद्व्यापी श्रीकरः शङ्खशोभितः । समुद्रकोटिगम्भीरो देवताप्रीतिदः सदा ॥ १८ ॥
सुरपतिर्भूतपतिर्ब्रह्मचारी पुरन्दरः । आकाशवायुमूर्तिश्च ब्रह्ममूर्तिर्जलेस्थितः ॥ १९ ॥
ब्रह्मा विष्णुर्दृष्टिपालः परमोऽमृतदायकः । परमानन्दसम्पूर्णः पुण्यदेवः परायणः ॥ २० ॥
धनी च धनदाता च धनगर्भो महेश्वरः । पाशपाणिः सर्वजीवः सर्वसंसाररक्षकः ॥ २१ ॥
देवकर्ता ब्रह्मकर्ता वषिष्ठो ब्रह्मपालकः । जगत्पतिः सुराचार्यो जगद्व्यापी जितेन्द्रियः ॥ २२ ॥
महामूर्तिर्विश्वमूर्तिर्महाबुद्धिः पराक्रमः । सर्वबीजार्थचारी च द्रष्टा वेदपतिः सदा ॥ २३ ॥
सर्वजीवस्य जीवश्च गोपतिर्मरुतां पतिः । मनोबुद्धिरहंकारकामादिक्रोधनाशनः ॥ २४ ॥
कामदेवः कामपालः कामाङ्गः कामवल्लभः । शत्रुनाशी कृपासिन्धुः कृपालुः परमेश्वरः ॥ २५ ॥
देवत्राता देवमाता भ्राता बन्धुः पिता सखा । बालवृद्धस्तनूरूपो विश्वकर्मा बलोऽबलः ॥ २६ ॥
अनेकमूर्तिः सततं सत्यवादी सतांगतिः । लोकब्रह्म बृहद्ब्रह्म स्थूलब्रह्म सुरेश्वरः ॥ २७ ॥
जगद्व्यापी सदाचारी सर्वभूतश्च भूपतिः । दुर्गपालः क्षेत्रनाथो रतीशो रतिनायकः ॥ २८ ॥
बली विश्वबलाचारी बलदो बलि-वामनः । दरह्रासः शरच्चन्द्रः परमः परपालकः ॥ २९ ॥
अकारादिमकारान्तो मध्योकारः स्वरूपधृक् । स्तुतिस्थायी सोमपाश्च स्वाहाकारः स्वधाकरः ॥ ३० ॥
मत्स्यः कूर्मो वराहश्च नरसिंहश्च वामनः । परशुरामो महावीर्यो रामो दशरथात्मजः ॥ ३१ ॥
देवकीनन्दनः श्रेष्ठो नृहरिः नरपालकः । वनमाली देहधारी पद्ममाली विभूषणः ॥ ३२ ॥
मल्लीकामालधारी च जातीयूथिप्रियः सदा । बृहत्पिता महापिता ब्राह्मणो ब्राह्मणप्रियः ॥ ३३ ॥
कल्पराजः खगपतिर्देवेशो देववल्लभः । परमात्मा बलो राज्ञां माङ्गल्यं सर्वमङ्गलः ॥ ३४ ॥
सर्वबलो देहधारी राज्ञां च बलदायकः । नानापक्षिपतङ्गानां पावनः परिपालकः ॥ ३५ ॥
वृन्दावनविहारी च नित्यस्थलविहारकः । क्षेत्रपालो मानवश्च भुवनो भवपालकः ॥ ३६ ॥
सत्त्वं रजस्तमोबुद्धिरहङ्कारपरोऽपि च । आकाशंगः रविः सोमो धरित्रीधरणीधरः ॥ ३७ ॥
निश्चिन्तो योगनिद्रश्च कृपालुः देहधारकः । सहस्रशीर्षा श्रीविष्णुर्नित्यो जिष्णुर्निरालयः ॥ ३८ ॥
कर्ता हर्ता च धाता च सत्यदीक्षादिपालकः । कमलाक्षः स्वयम्भूतः कृष्णवर्णो वनप्रियः ॥ ३९ ॥
कल्पद्रुमः पादपारिः कल्पकारी स्वयं हरिः । देवानां च गुरुः सर्वदेवरूपो नमस्कृतः ॥ ४० ॥
#जगन्नाथजी #Jagganathaarti #जगन्नाथधाम #भगवानजगन्नाथ #पुरीधाम #RathYatra2024
अपने दिन को सकारात्मक ऊर्जा से भरने के लिए सब्सक्राइब कीजिये और अपने मित्र परिवार के साथ शेर कीजिये|
🔔 SUBSCRIBE NOW:
/ @shemaroobhakti
Follow Us On -
Facebook : / shemaroobhakti
Twitter : / shemaroobhakti
Instagram : / shemaroobhakti
Whatsapp : bit.ly/Shemaro...
Негізгі бет Jagannath Mangal Aarti | Sri Jagannath Sahastranam | जगन्नाथ धाम आरती ଜଗନ୍ନାଥ ସକାଳ ଆରତୀ
Пікірлер: 48