#tgtsanskrit #pgtsanskrit #sanskrit #shlok #vachan #nitishatakam #sanskrit_song #kadambari #kadambari_kathamukham
My other channel:-
@_Prachi__Dwivedi_
• Neetishatakam || नीतिश...
• मेघदूतम् {पूर्वमेघ}
अभिज्ञान शाकुन्तलम्
• अभिज्ञानशाकुन्तलम् वाच...
उत्तररामचरितम्
• उत्तररामचरितम् वाचन ||...
रजोजुषे जन्मनि सत्त्ववृत्तये स्थितौ प्रजानां प्रलये तम:सपृशे ।
अजाय सर्गस्थितिनाशहेतवे त्रयीमयाय त्रिगुणात्मने नम: ।।1।।
जयन्ति बाणासुरमौलिलालिता दशास्यचुडामणिचक्रचुम्बिन: ।
सुरासुराधीशशिखान्तशायिनो भवच्छिदस्त्रयम्बकपादपांसव: ।।2।।
जयतयुपेन्द्र: स चकार दूरतो बिभित्सया य: क्षणलब्धलक्ष्यया ।
दृशैव कोपारुणया रिपोरुर: स्वयं भयाद्भिन्नमिवास्रपाटलम् ।।3।।
नमामि भर्वोश्चरणाम्बुजद्वयं सशेखरैर्मौखरिभि: कृतार्च्चनम् ।
समस्त-सामन्त-किरीट-वेदिकाविटङंक-पीठोल्लुठितारुणाङ्गुलि: ।।4।।
आकारणाविष्कृतवैरदारुणाद् असज्जनात् कस्य भयं न जायते ।
विषं महाहेरिव यस्य दुर्वच: सुदु:सहं सन्निहितं सदा मुखे ।।5।।
कटुक्वणन्तो मलदायका: खलास्तुदन्त्यलं बन्धनशृंखला इव ।
मनस्तु साधुध्वनिभि: पदे पदे हरन्ति सन्तो मणिनूपुरा इव ।।6।।
सुभाषितं हारि विशत्यधो गलान्न दुर्जनस्यार्करिपोरिवासृतम् ।
तदोव धत्ते हृदयेन सज्जनो हरिर्महारत्नमिवातिलिर्मलम् ।।7।।
स्फुरत्कलालाप-विलास-कोमला करोति रामं हृदि कौतुकाधिकम् ।
रसेन शय्यां स्वयमभ्युपागता कथा जनस्याभिनवा वधूरिव ।।8।।
हरन्ति कं नोज्जवलदीपकोपमैर्नवै: पदार्थैरुपपादिता: कथाI ।
निरन्तरश्लेषघना: सुजातयो महास्रयश्चम्पक-कुड्मलैरिव ।।9।।
बभूव वात्स्यायनवंशसम्भवो द्विजो जगद्गीतगुणा..ग्रणी: सताम् ।
अनेकगुप्तार्चितपाद-पङ्कज: कुबेरनामांश इव स्वयम्भुव: ।।10।।
उवास यस्य श्रुतिशान्तकल्मषे सदा पुरोडाशपवित्रिताधरे ।
सरस्तवती सोमकषयितोदरे समस्त-शास्त्र-स्मृति-बन्धुरे मुखे ।।11।।
जगुर्गृहे..भ्यस्तसमत्तवाङ्मयै: ससारिकै: पञ्जरवर्त्तिभि: शुकै: ।
निगृह्यमाणा वटव: पदे पदे यजूंषि सामानि च यस्य शङ्किता: ।।12।।
हिरण्यगर्भो भुवनाण्डकादिव क्षपाकर: क्षीरमहार्णवादिव ।
अभूत् सुपर्णो विनतोदरादिव द्विजन्मनामर्थपति: पतिस्तत: ।।13।।
विवृण्वतो यस्य विसारि वाङ्मयं दिने दिने शिष्यगणा नवा: नवा: ।
उषस्सु लग्ना: श्रवणे..धिकां श्रियं प्रचक्रिरे चन्दनपल्लवा इव ।।14।।
विधान-सम्पादितदान-शोभितै: स्फुरन्महावीर-सनाथमूर्त्तिभि: ।
सखैरसंख्यैरजयत् सुरालयं सुखेन यो पूपकरैर्गजैरिव ।।15।।
स चित्रभानुं तनयं महात्मनां सुतोत्तमानां श्रुतिशास्त्रशालिनाम् ।
अवाप मध्ये स्फटिकोपलामलं क्रमेण कैलाशमिव क्षमाभृताम् ।।16।।
महात्मनो यस्य सुदुरनिर्गता: कलङ्कमुक्तेन्दुकलामलत्विष: ।
द्विषन्मन: प्राविविशु: कृतान्तरा गुणा नृसिंहस्य नखाङ्कुशा इव ।.17।।
दिशामलीकालक-भङ्गतां गतस्त्रयीवधूकर्णतमालपल्लव: ।
चकार यस्याध्वरधूमसञ्चयो मलीमस: शुक्लतरं निजं यश: ।।18।।
सरस्वती-पाणि-सरोज-सम्पुट-प्रसृष्ट-होमश्रमशीकराम्भस: ।
यशों..शुशुक्लीकृतसप्तविष्टपात् तत: सुतो बाण इति व्यजायत ।।19।।
द्विजेन तेनाक्षतकण्ठकौण्ठ्यया महामनोसोहमलीमसान्धया ।
अलभ्धवैदग्ध्यविलासमुग्धया धिया निबद्धेयमतिद्वयी कथा ।।20।।
Please like, comment and share my video 🙏🏻🙏🏻🙏🏻🌺🌺
And please subscribe to my channel and press the bell icon 🙏🏻🙏🏻🙏🏻🌺🌺🌺🌺🌺🌺
🌺🌺🙏🏻🙏🏻🌺 ॐ आदित्यायः नमः 🌺🙏🏻🙏🏻🌺🌺
Негізгі бет kadambari || कादम्बरी वाचन || श्लोक संख्या (१-२०) kathamukh vachan {मंङ्गलाचरण}
Пікірлер: 75