प्रधानमन्त्री नरेन्द्रमोदी ह्य: प्रोक्तवान् यत् तस्य सर्वकारः सम्पूर्णतया भारतं प्रथमम् इति आदर्शवाक्येन पथप्रदर्शितः अस्ति । सः अवदत् यत् तस्य सर्वकारेण तुष्टीकरणं विना, सर्वेभ्यः न्यायस्य नीतिः स्वीकृता अस्ति । श्रीमोदिना लोकसभायां द्वयोः सदनयोः संयुक्तसभायां राष्ट्रपते: द्रौपदीमुर्मूवर्यायाः धन्यवादप्रस्तावस्य उत्तरं प्रयच्छता एतत् उक्तम्।
प्रधानमन्त्री नरेन्द्रमोदी ह्य: राष्ट्रिय-लोकतान्त्रिक-संयुते: सांसदान् संसद: नियमानाम् अनुपालनाय संसदीय-लोकतन्त्रस्य सिद्धान्तानां स्थापनाय अनुकूलाचरणस्य प्रदर्शनाय च विनिवेदितवान्।
उत्तरप्रदेशस्य हाथरसे ह्य: एकस्मिन् धार्मिक-कार्यक्रमे दुरापन्नायां दुर्घटनायां षोडशाधिक-शतं जना: मृत्युम् उपगता: अष्टादश अन्ये च गभीरतया व्रणिता: जाता:।
दक्षिणपश्चिमीय-प्रावृट् आराष्ट्रं प्राप्त: । भारतीय-विज्ञान-विभागेन संसूचितं यत् असमराज्ये जलौघस्थिति: गभीरा जाता। येन हि अष्टाविंशति-जनपदेषु एकादशलक्षाधिकं जना: जलौघप्रभाविता: अस्ति
अनुवादक: प्रवाचक: च - दिव्यानन्द-झा:
आशुलिपिकः - मुलायम:
Subscribe to
Akashvani All India Radio News Whatsapp Channel : www.whatsapp.c...
News On AIR KZitem Channel : @NEWSONAIROFFICIAL
Visit Akashvani website : newsonair.gov.in
Follow us on :
Twitter English : / airnewsalerts
Twitter Hindi : / airnewshindi
Facebook : / airnewsalerts
Instagram : / airnewsalerts
Koo : www.kooapp.com...
Public:public.app/use...
Негізгі бет Sanskrit News 03 (July)
Пікірлер: 2