Vocal- Mukund Ras Prabhu.
Music- Prasad Shirole
Photo courtesy- Rohit Bagul.
Śrī Śrī Rādhā-kripa-kaṭākṣa-stava-rāja
The PRAYER FOR THE MERCIFUL SIDELONG GLANCE OF SRI RADHA
(An Appeal to Śīmatī Rādhāraṇi from the Ūrdhvāmnāya-tantra)Spoken by Lord Śiva to Parvati
This is the most famous stotra in Sri Vrindavana, Sometimes called the national anthem of Vrindavan.
All the sadhus and devoted matajis [ladies] know it by heart, and it is recited daily in most temples and nearby villages; indeed, this prayer is regarded as the very heart of Vrindavana.
It is also known as: "The King of Prayers which Petitions the Most Merciful Side-long Glance from Srimati Radharani".
This exceptional prayer is composed in a lovely meter and daily sung in a charming melody by many Brijabasis (Vrindavan residents).
Translated by Kuśakratha dāsa
lyrics with translation link www.harekrsna.de/Radha-kripa-k...
१)
मुनीन्द्रवृन्दवन्दिते त्रिलोकशोकहारिणि
प्रसन्नवक्त्रपङ्कजे निकुञ्जभूविलासिनि
व्रजेन्द्रभानुनन्दिनि व्रजेन्द्रसूनुसङ्गते
कदा करिष्यसीह मां कृपाकताक्षभाजनम्
(२)
अशोकवृक्षवल्लरीवितानमण्डपस्थिते
प्रवालवालपल्लवप्रभारुनाङ्घ्रिकोमले
वराभयस्पुरत्करे प्रभूतसम्पदालये
कदा करिष्यसीह मां कृपाकताक्षभाजनम्
(३)
अनङ्गरङ्गमङ्गलप्रसङ्गभङ्गुरभ्रुवां
सविभ्रमं ससंभ्रमं दृगन्तबाणपातनैः
निरन्तरं वशीकृतप्रतीतिनन्दनन्दने
कदा करिष्यसीह मां कृपाकताक्षभाजनम्
(४)
तडित्सुवर्णचम्पकप्रदीप्तगौरविग्रहे
मुखप्रभापरास्तकोटिशारदेन्दुमण्डले
विचित्रचित्रसञ्चरच्चकोरशावलोचने
कदा करिष्यसीह मां कृपाकताक्षभाजनम्
(५)
मदोन्मदातियौवने प्रमोदमानमण्डिते
प्रियानुरागरञ्जिते कलाविलासपण्डिते
अनन्यधन्यकुञ्जराज्यकामकेलिकोविदे
कदा करिष्यसीह मां कृपाकताक्षभाजनम्
(६)
अशेषहावभावधीरहीरहारभूषिते
प्रभूतशातकुम्भकुम्भकुम्भि कुम्भसुस्तनि
प्रशस्तमन्दहास्यचूर्णपूर्णसौक्यसागरे
कदा करिष्यसीह मां कृपाकताक्षभाजनम्
(७)
मृनालवालवल्लरीतरङ्गरङ्गदोर्लते
लताग्रलास्यलोलनीललोचनावलोकने
ललल्लुलन्मिलन्मनोज्ञमुग्धमोहनाश्रिते
कदा करिष्यसीह मां कृपाकताक्षभाजनम्
(८)
सुवर्णमालिकाञ्चितत्रिरेखकम्बुकण्ठगे
त्रिसूत्रमङ्गलीगुणत्रिरत्नदीप्तिदीधिति
सलोलनीलकुन्तलप्रसूनगुच्छगुम्फिते
कदा करिष्यसीह मां कृपाकताक्षभाजनम्
(९)
नितम्बबिम्बलम्बमानपुष्पमेखलागुणे
प्रशस्तरत्नकिङ्किणीकलापमध्यमञ्जुले
करीन्द्रशुण्डदण्डिकावरोहसौभगोरके
कदा करिष्यसीह मां कृपाकताक्षभाजनम्
(१०)
अनेकमन्त्रनादमञ्जुनूपुरारवस्खलत्
समाजराजहंसवंशनिक्वणातिगौरवे
विलोलहेमवल्लरीविडम्बिचारुचङ्क्रमे
कदा करिष्यसीह मां कृपाकताक्षभाजनम्
(११)
अनन्तकोटिविष्णुलोकनम्रपद्मजार्चिते
हिमाद्रिजापुलोमजाविरिञ्चिजावरप्रदे
अपारसिद्धिऋद्धिदिग्धसत्पदाङ्गुलीनखे
कदा करिष्यसीह मां कृपाकताक्षभाजनम्
(१२)
मखेश्वरि क्रियेश्वरि स्वधेश्वरि सुरेश्वरि
त्रिवेदभारतीश्वरि प्रमाणशासनेश्वरि
रमेश्वरि क्षमेश्वरि प्रमोदकाननेश्वरि
व्रजेश्वरि व्रजाधिपे श्रीराधिके नमोऽस्तु ते
(१३)
इती ममाद्भुतं स्तवं निशम्य भानुनन्दिनी
करोतु सन्ततं जनं कृपाकटाक्षभाजनम्
भवेत् तदैव सञ्चितत्रिरूपकर्मनाशनं
भवेत् तदा व्रजेन्द्रसूनुमण्डलप्रवेशनम्
राकायां च सिताष्टम्यां दशम्यां च विशुद्धधीः ।
एकादश्यां त्रयोदश्यां यः पठेत्साधकः सुधीः ॥१४॥
यं यं कामयते कामं तं तमाप्नोति साधकः ।
राधाकृपाकटाक्षेण भक्तिःस्यात् प्रेमलक्षणा ॥१५॥
ऊरुदघ्ने नाभिदघ्ने हृद्दघ्ने कण्ठदघ्नके ।
राधाकुण्डजले स्थिता यः पठेत् साधकः शतम् ॥१६॥
तस्य सर्वार्थ सिद्धिः स्याद् वाक्सामर्थ्यं तथा लभेत् ।
ऐश्वर्यं च लभेत् साक्षाद्दृशा पश्यति राधिकाम् ॥१७॥
तेन स तत्क्षणादेव तुष्टा दत्ते महावरम् ।
येन पश्यति नेत्राभ्यां तत् प्रियं श्यामसुन्दरम् ॥१८॥
नित्यलीला-प्रवेशं च ददाति श्री-व्रजाधिपः ।
अतः परतरं प्रार्थ्यं वैष्णवस्य न विद्यते ॥१९॥
॥ इति श्रीमदूर्ध्वाम्नाये श्रीराधिकायाः कृपाकटाक्षस्तोत्रं सम्पूर्णम ॥
Негізгі бет Музыка Sri Radha Kripa Kataksha Stava Raja |Vrindavan Anthem| Lyrics and Meaning |
Пікірлер: 788