Yamunashtakam | Yamunashtak Stotra | Yamunashtak Stuti | Yamuna Mantra | श्री यमुना स्तुति | Pushtimarg | Vallabhacharya | Shodash granth | NakshatraPedia
Want to learn Sanskrit? Check out our best-selling course →
Learn Sanskrit Language (Samskrutam) - The Complete Guide -
www.udemy.com/...
Learn how to chant Geeta shlokas with correct pronunciation with utmost clarity → www.udemy.com/...
Follow us on Instagram - / nakshatrapedia
नमामि यमुनामहं सकलसिद्धिहेतुं मुदा
मुरारिपदपङ्कजस्फुरदमन्दरेणूत्कटाम् ।
तटस्थनवकाननप्रकटमोदपुष्पाम्बुना
सुरासुरसुपूजितस्मरपितुः श्रियं बिभ्रतीम् ॥ १॥
कलिन्दगिरिमस्तके पतदमन्दपूरोज्ज्वला
विलासगमनोल्लसत्प्रकटगण्डशैलोन्नता ।
सघोषगतिदन्तुरा समधिरूढदोलोत्तमा
मुकुन्दरतिवर्धिनी जयति पद्मबन्धोः सुता ॥ २॥
भुवं भुवनपावनीमधिगतामनेकस्वनैः
प्रियाभिरिव सेवितां शुकमयूरहंसादिभिः ।
तरङ्गभुजकङ्कणप्रकटमुक्तिकावालुका
नितम्बतटसुन्दरीं नमत कृष्णतुर्यप्रियाम् ॥ ३॥
अनन्तगुण भूषिते शिवविरञ्चिदेवस्तुते
घनाघननिभे सदा ध्रुवपराशराभीष्टदे ।
विशुद्धमथुरातटे सकलगोपगोपीवृते
कृपाजलधिसंश्रिते मम मनस्सुखं भावय ॥ ४॥
यया चरणपद्मजा मुररिपोः प्रियम्भावुका
समागमनतोऽभवत् सकलसिद्धिदा सेवताम् ।
तया सदृशतामियात्कमलजा सपत्नीव य-
द्धरिप्रियकलिन्दया मनसि मे सदा स्थीयताम् ॥ ५॥
नमोऽस्तु यमुने सदा तव चरित्रमत्यद्भुतं
न जातु यमयातना भवति ते पयः पानतः ।
यमोऽपि भगिनीसुतान्कथमुहन्ति दुष्टानपि
प्रियो भवति सेवनात्तव हरेर्यथा गोपिकाः ॥ ६॥
ममाऽस्तु तव सन्निधौ तनुनवत्वमेतावता
न दुर्लभतमा रतिर्मुररिपौ मुकुन्दप्रिये ।
अतोऽस्तु तव लालना सुरधुनी परं सङ्गमा-
त्तवैव भुवि कीर्तिता न तु कदापि पुष्टिस्थितैः ॥ ७॥
स्तुतिं तव करोति कः कमलजासपत्निप्रिये
हरेर्यदनुसेवया भवति सौख्यमामोक्षतः ।
इयं तव कथाऽधिका सकलगोपिकासङ्गमः ।
स्मरश्रमजलाणुभिः सकलगात्रजैः सङ्गमः ॥ ८॥
तवाऽष्टकमिदं मुदा पठति सूरसूते सदा
समस्तदुरितक्षयो भवति वै मुकुन्दे रतिः ।
तया सकलसिद्धयो मुररिपुश्च सन्तुष्यति
स्वभावविजयो भवेद्वदति वल्लभः श्रीहरेः ॥ ९॥
Please like, share and subscribe our channel. Hit the bell icon to get regular updates about our videos.
If you have any questions regarding our videos/mantras, you can ask us in the comments section below.
Your suggestions/recommendations will be always welcomed!
#yamunashtakam #yamunashtak #NakshatraPedia
Негізгі бет Yamunashtakam | Yamunashtak Stotra | Shree Yamuna Stuti | श्री यमुना स्तुति | NakshatraPedia
Пікірлер: 72