आयुर्द्रोणसुते ।दशैमा टिका लगाइदिने मन्त्र । Dashain mantra | Dashain ko mantra | Saru Guragain
Audio/Video: Murari Guragain
आयुर्द्रोणसुते श्रियो दशरथे शत्रुक्षयो राघवे ।
ऐश्वर्यं नहुषे गतिश्च पवने मानश्च दुर्योधने ।।
शौर्यं शान्तनवे बलं हलधरे सत्यञ्च कुन्तीसुते ।
विज्ञानं विदुरे भवन्तु भवतां कीर्तिश्च नारायणे ।
लक्ष्मीस्ते पङ्कजाक्षी निवसतु भवने भारती कण्ठदेशे।
वर्धन्तां बन्धुवर्गाः सकलरिपुगणा यान्तु पातालमूले।।
देशेदेशे सुकीर्तिः प्रसरतु निखिले कुन्दपुष्पेन्दुशुभ्रा।
जीव त्वं पुत्रपौत्रैः सह विविधगुणैर् हायनानां शतञ्च।।
आयुर्वृद्धिर् यशोवृद्धिर् वृद्धिः प्रज्ञासुखश्रियाम् ।
धर्मसन्तानयोर् वृद्धिः सप्त ते सन्तु वृद्धयः ।।
जयन्ती मङ्गला काली भद्रकाली कपालिनी।
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते।।
निवसतु तव गेहे निश्चला सिन्धुपुत्री।
प्रविशतु भुजदण्डे कालिका वैरिहन्त्री।।
तव वदनसरोजे भारती भातु नित्यम्।
न चलतु तव चित्तं पादपद्मान्मुरारे:।।
#saruguragain #murari #ramayana
Негізгі бет आयुर्द्रोणसुते ।दशैमा टिका लगाइदिने मन्त्र । Dashain mantra | Dashain ko mantra | Saru Guragain
Пікірлер: 203